|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.283. अध्यायः 283
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति कालस्य द्रुततरपातितया सद्यस्साधनस्य संपादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
* युधिष्ठिर उवाच। 12-283-0x(6360)(76567)
अतिक्रामति कालेऽस्मिन्सर्वभूतभयावहे।
किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह॥ 12-283-1(76568)
भीष्म उवाच। 12-283-2x(6361)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर॥ 12-283-2(76569)
द्विजातेः कस्यजित्पार्थ स्वाध्यायनिरतस्य वै।
पुत्रो बभूव मेधावी मेधावी नाम नामतः॥ 12-283-3(76570)
सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम्।
मोक्षधर्मेष्वकुशलं मोक्षधर्मविचक्षणः॥ 12-283-4(76571)
पुत्र उवाच। 12-283-5x(6362)
धीरः किंस्वित्तात कुर्यात्प्रजानन्
क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम्।
पितस्तथाऽऽख्याहि यथार्थयोगं
ममानुपूर्व्या येन धर्मं चरेयम्॥ 12-283-5(76572)
पितोवाच। 12-283-6x(6363)
अधीत्य वेदान्ब्रह्मचर्येषु पुत्र
पुत्रानिच्छेत्पावनार्थं पितृणाम्।
अग्नीनाधाय विधिवच्चेष्टयज्ञो
वनं प्रविश्याथ मुनिर्बुभूषेत्॥ 12-283-6(76573)
पुत्र उवाच। 12-283-7x(6364)
एवमभ्याहते लोके सर्वतः परिवारिते।
अमोधासु पतन्तीषु किं धीर इव भाषसे॥ 12-283-7(76574)
पितोवाच। 12-283-8x(6365)
कथमभ्याहतो लोकः केन वा परिवारितः।
अमोघाः काः पतन्तीह किंनु भीषयसीव माम्॥ 12-283-8(76575)
पुत्र उवाच। 12-283-9x(6366)
मृत्युनाऽऽभ्याहतो लोको जस्या परिवारितः।
अहोरात्राः पतन्तीमे तच्च कस्मान्न बुध्यसे॥ 12-283-9(76576)
यदाहमेव जानामि न मृत्युस्तिष्ठतीति ह।
सोहं कथं प्रतीक्षिप्ये ज्ञानेनापिहितश्चरन्॥ 12-283-10(76577)
रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा।
गाधोदके मत्स्य इव सुखं विन्देत कस्तदा॥ 12-283-11(76578)
`यामेकरात्रिं प्रथमां गर्भो विशति मातरम्।
तामेव रात्रिं प्रस्वाप्य मरणाय विवर्तकः॥' 12-283-12(76579)
पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम्।
अनवाप्तेषु कामेषु मृत्युरभ्येति गानवम्॥ 12-283-13(76580)
श्वः कार्यमद्य कुर्वीत पूर्वाङ्गे चापराहिकम्।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम्॥ 12-283-14(76581)
अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगान्महान्।
को हि जानाति कस्याद्य मृत्युकालो मविष्यति॥ 12-283-15(76582)
अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति।
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम्॥ 12-283-16(76583)
कृते धर्म भवेत्प्रीतिरिह प्रेत्य च शाश्वती।
मोहेन हि समाविष्टः पुत्रदारार्तमुद्यतः॥ 12-283-17(76584)
कृत्वा कार्यमकार्यं वा तुष्टिमेषां प्रयच्छति।
तं पुत्रपशुसंपन्नं व्याभक्तमनसं नरम्॥ 12-283-18(76585)
सप्तं व्यायं महौघो वा मृत्युरादाय गच्छति।
संविन्वानकमेवैनं कामानामवितृप्तकम्॥ 12-283-19(76586)
वृकीवोरपमासाद्य मुत्युरादाय गच्छति।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम्॥ 12-283-20(76587)
एवमीहासमायुक्तं मृत्युरादाय गच्छति।
कृतानां फलमप्राप्तं कार्याणां कर्मसङ्गिनाम्॥ 12-283-21(76588)
क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति।
दुर्बलं बलवन्तं च प्राज्ञं शूरं जडं कविम्॥ 12-283-22(76589)
अप्राप्तसर्वकामार्थं मृत्युरादाय गच्छति।
मृत्युर्जरा च व्याधिश्चदुःखं चानेककारणम्॥ 12-283-23(76590)
असंत्याज्यं यदा मर्त्यैः किं स्वस्थ इव तिष्ठति।
जातमेवान्तकोऽन्ताय जरा चाभ्येति देहिनम्॥ 12-283-24(76591)
अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः।
न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते॥ 12-283-25(76592)
बलात्सत्यमृते त्वेकं सत्ये ह्यमृतमाश्रितम्।
मृत्योर्वा गृहमेतद्वै या ग्रामे वसतो रतिः॥ 12-283-26(76593)
देवानामेषु वै गोष्ठो यदरण्यमिति श्रुतिः।
निबन्धनी रज्जुरेषा या ग्रामे वसतो रतिः॥ 12-283-27(76594)
छित्त्वैनां सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः।
यो न हिंसति सत्वानि मनोवाक्कर्महेतुभिः॥ 12-283-28(76595)
जीवितार्थापनयनैः प्राणिभिर्न स बध्यते।
तस्मात्सत्यव्रताचारः सत्यव्रतपरायणः॥ 12-283-29(76596)
सत्यकामः समो दान्ताः सत्येनैवान्तकं जयेत्।
अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम्॥ 12-283-30(76597)
मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम्।
सोहं सत्यमहिंसाथीं कामक्रोधबहिष्कृतः॥ 12-283-31(76598)
समाश्रित्य सुखं क्षेमी मृत्युं हास्याम्यमृत्युवत्।
शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः॥ 12-283-32(76599)
वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने।
पशुयज्ञैः कथं हिंस्रैर्मादृशो यष्टुमर्हति॥ 12-283-33(76600)
अन्तवद्भिरुत प्राज्ञः क्षत्रयज्ञैः पिशाचवत्।
आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजः पितः॥ 12-283-34(76601)
आत्मयज्ञो भविष्यामि न मां तारयति प्रजा।
यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा॥ 12-283-35(76602)
तपस्त्यागश्च योगश्च स तैः सर्वमवाप्नुयात्।
नास्ति विद्यासमं चक्षुर्नास्ति विद्यासमं फलम्॥ 12-283-36(76603)
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥ 12-283-37(76604)
नैतादृशं ब्राह्मणस्यास्ति वित्तं
यथैकता समता सत्यता च।
शीले स्थितिर्दण्डविधानमार्जवं
ततस्ततश्चोपरमः क्रियाभ्यः॥ 12-283-38(76605)
किं ते धनैर्बान्धवैर्वाऽपि किं ते
किं ते दारैब्राह्मण यो मरिष्यसि।
आत्मानमन्विच्छ गृहा प्रविष्टं
पितामहास्ते क्व गताः पिता च॥ 12-283-39(76606)
भीष्म उवाच। 12-283-40x(6367)
पुत्रस्यैतद्वचः श्रुत्वा तथाकार्षीत्पिता नृप।
तथा त्वमपि राजेन्द्र सत्यधर्मपरो भव॥ ॥ 12-283-40(76607)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यशीत्यधिकद्विशततमोऽध्यायः॥ 283॥
Mahabharata - Shanti Parva - Chapter Footnotes
* यद्यप्ययमध्यायः पूर्वत्र 174 तमाध्यायतया स्थापितः। तथापि ड. थे. तरपुस्तकेषु द्वितीयवारमत्रापि दृश्यमानतयाऽस्माभिरत्रापि स्थापितः।


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|